|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.344. अध्यायः 344
Mahabharata - Shanti Parva - Chapter Topics
बृहस्पतिना उपरिचरवसोर्याजनम्॥ 1॥ तत्र श्रीहरिणा परोक्षतया भागग्रहणात्क्रुद्धं बृहस्पतिंप्रति एकतादिभिः श्वेतद्वीपवर्णनपूर्वकं भगवन्महिमोक्त्या परिसान्त्वनम्॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-344-0x(6568)(79489)
ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते।
बभूवुर्निर्वृता देवा जाते देवपुरोहिते॥ 12-344-1(79490)
बृहद्ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः।
एभिः समन्वितो राजन्गुणैर्विद्वान्बृहस्पतिः॥ 12-344-2(79491)
तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः।
अधीतवांस्तदा शास्त्रं सम्यक्चित्रशिखण्डिजं॥ 12-344-3(79492)
स राजा भावितः पूर्वं दैवेन विधिना वसुः।
पालयामास पृथिवीं दिवमाखण्डलो यथा॥ 12-344-4(79493)
तस्य यज्ञो महानासीदश्वमेधो महात्मनः।
बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह॥ 12-344-5(79494)
प्रजापतिसुताश्चात्र सदस्याश्चाभवंस्त्रयः।
एकतश्च द्वितश्चैव त्रितश्चैव मर्हषयः॥ 12-344-6(79495)
धनुषाख्योऽथ रैभ्यश्च अर्वावसुपरावसू।
ऋषिर्मोधातिथिश्चैव ताण्ड्यश्चैव महानृषिः॥ 12-344-7(79496)
ऋषिः शान्तिर्महाभागस्तथा वेदशिराश्च यः।
ऋषिश्रेष्ठश्च कपिलः शालिहोत्रपिता स्मृतः॥ 12-344-8(79497)
आद्यः कठस्तैत्तिरिश्च वैशम्पायनपूर्वजः।
कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः॥ 12-344-9(79498)
संभूताः सर्वसंभारास्तस्मिन्राजन्महाक्रतौ।
न तत्र पशुघातोऽभूत्स राजैवं स्थितोऽभवत्॥ 12-344-10(79499)
अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः।
आरण्यकपदोद्भूता भागास्तत्रोपकल्पिताः॥ 12-344-11(79500)
प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः।
साक्षात्तं दर्शयामास सोदृश्योऽन्येन केनचित्॥ 12-344-12(79501)
स्वयं भागमुपाघ्राय पुरोडाशं गृहीतवान्।
अदृश्येन हृतो भागो देवेन हरिमेधसा॥ 12-344-13(79502)
बृहस्पतिस्ततः क्रुद्धः स्रुचमुद्यम्य वेगितः।
आकाशं घ्नन्स्रुचः पातै रोषादश्रूण्यवर्तयत्॥ 12-344-14(79503)
उवाच चोपरिचरं मया भागोऽयमुद्यतः।
ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः॥ 12-344-15(79504)
उद्यता यज्ञभागा हि साक्षात्प्राप्ताः सुरैरिह।
किमर्थमिह न प्राप्तो दर्शनं मे हरिर्नृप॥ 12-344-16(79505)
भीष्म उवाच। 12-344-17x(6569)
ततः स तं समुद्भूतं भूमिपालो महान्वसुः।
प्रसादयामास मुनिं सदस्यास्ते च सर्वशः॥ 12-344-17(79506)
`हुतस्त्वया वदानीह पुरोडाशस्य यावती।
गृहीता देवदेवेन मत्प्रत्यक्षं न संशयः॥ 12-344-18(79507)
इत्येवमुक्ते वसुना सरोषश्चाब्रवीद्गुरुः।
न यजेयमहं चात्र परिभूतस्त्वया नृप॥ 12-344-19(79508)
त्वया पशुर्वारितश्च कृतः पिष्टमयः पशुः।
त्वं देवं पश्यसे नित्यं न पश्येयमहं कथम्॥ 12-344-20(79509)
वसुरुवाच। 12-344-21x(6570)
पशुहिंसा वारिता च यजुर्वेदादिमन्त्रतः।
अहं न वारये हिंसां द्रक्ष्याम्येकान्तिको हरिम्।
तस्मात्कोपो न कर्तव्यो भवता गुरुणा मयि॥ 12-344-21(79510)
वसुमेवं ब्रुवाणं तु क्रुद्ध एव बृहस्पतिः।
उवाच ऋत्विजश्चैव किं नः कर्मेति वारयन्॥ 12-344-22(79511)
अथैकतो द्वितश्चैव त्रितश्चैव महर्षयः।'
ऊचुश्चैनमसंभ्रान्ता न रोषं कर्तुमर्हसि॥ 12-344-23(79512)
`शृणु त्वं वचनं पुत्र अस्माभिः समुदाहृतम्।'
नैष धर्मः कृतयुगे यत्त्वं रोषमिहाहिथाः॥ 12-344-24(79513)
अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः।
न शक्यः स त्वया द्रष्टुमस्माभिर्वा बृहस्पते।
यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति॥ 12-344-25(79514)
वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः।
गता निःश्रेयसार्थं हि कदाचिद्दिशमुत्तराम्॥ 12-344-26(79515)
तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम्।
एकपादा स्थिताः सम्यक्काष्ठभूताः समाहिताः॥ 12-344-27(79516)
मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः।
स देशो यत्र नस्तप्तं तपः परमदारुणम्॥ 12-344-28(79517)
वरेण्यं वरदं तं वै देवदेवं सनातनम्।
कथं पश्येमहि वयं देवं नारायणं त्विति॥ 12-344-29(79518)
अथ व्रतस्यावभृथे वागुवाचाशरीरिणी।
स्निग्धगम्भीरया वाचा प्रहर्षणकरी विभो॥ 12-344-30(79519)
सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना।
यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं विभुम्॥ 12-344-31(79520)
क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः।
तत्र नारायणपरा मानवाश्चन्द्रवर्चसः॥ 12-344-32(79521)
एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम्।
ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम्॥ 12-344-33(79522)
अनिन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः।
एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः। 12-344-34ca गच्छध्वं तत्र मुनयस्तत्रात्मा मे प्रकाशितः॥ 12-344-34(79523)
अथ श्रुत्वा वयं सर्वे वाचं तामशरीरिणीम्।
यथाख्यातेन मार्गेण तं देशं प्रविशेमहि॥ 12-344-35(79524)
प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः।
`सहसा हि गताः सर्वे तेजसा तस्य मोहिताः॥' 12-344-36(79525)
ततोऽस्मद्दृष्टिविषयस्तदा प्रतिहतोऽभवत्।
न च पश्याम पुरुषं तत्तेजोहतदर्शनाः॥ 12-344-37(79526)
ततो नः प्रादुरभवद्विज्ञानं देवयोगजम्।
न किलातप्ततपसा शक्यते द्रष्टमञ्जसा॥ 12-344-38(79527)
ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत्।
व्रतावसाने च शुभान्नरान्ददृशिमो वमय्॥ 12-344-39(79528)
श्वेतांश्चन्द्रप्रतीकाशान्सर्वलक्षणलक्षितान्।
नित्याञ्जलिकृतान्ब्रह्म जपतः प्रागुदङ्भुखान्॥ 12-344-40(79529)
मानसो नाम स जपो जप्यते तैर्महात्मभिः।
तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः॥ 12-344-41(79530)
याऽभवन्मुनिशार्दूल भाः सूर्यस्य युगक्षये।
एकैकस्य प्रभा तादृक्साऽभवन्मानवस्य ह॥ 12-344-42(79531)
तेजोनिवासः स द्वीप इति वै मेनिरे वयम्।
न तत्राभ्यधिकः कश्चित्सर्वे ते समतेजसः॥ 12-344-43(79532)
अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम्।
सहसा दृष्टवन्तः स्म पुनरेव बृहस्पते॥ 12-344-44(79533)
सहिताश्चाभ्यधावन्त ततस्ते मानवा द्रुतम्।
कृताञ्जलिपुष्टा हृष्टा नम इत्येव वादिनः॥ 12-344-45(79534)
ततो हि वदतां तेषामश्रौष्म विपुलं ध्वनिम्।
बलिः किलोपह्रियते तस्य देवस्य तैर्नरैः॥ 12-344-46(79535)
वयं तु तेजसा तस्य सहसा हृतचेतसः।
न किंचिदपि पश्यामो हतचक्षुर्बलेन्द्रियाः॥ 12-344-47(79536)
एकस्तु शब्दो विततः श्रुतोऽस्माभिरुदीरितः।
`आकाशं पूरयन्सर्वं शिक्षाक्षरसमन्वितः॥ 12-344-48(79537)
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज।
इति शब्दः श्रुतोऽस्माभिः शिक्षाक्षरसमन्वितः॥ 12-344-49(79538)
एतस्मिन्नन्तरे वायुः सर्वगन्धवहः शुचिः।
दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तथा॥ 12-344-50(79539)
तैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरैः।
भक्त्या परमया युक्तैर्मनोवाक्कर्मभिस्तदा॥ 12-344-51(79540)
नूनं तत्रागतो देवो यथा तैर्वागुदीरिता।
वयं त्वेनं न पश्यामो मोहितास्तस्य मायया॥ 12-344-52(79541)
मारुते सन्निवृत्ते च बलौ च प्रतिपादिते।
चिन्ताव्याकुलितात्मानो जाताः स्मोङ्गिसांवर॥ 12-344-53(79542)
मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु।
अस्मान्न कश्चिन्मनसा चक्षुषा वाऽप्यपूजयत्॥ 12-344-54(79543)
तेऽपि स्वस्था मुनिगणा एक भावमनुव्रताः।
नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः॥ 12-344-55(79544)
ततोऽस्मान्सुपरिश्रान्तांस्तपसा चातिकर्शितान्।
उवाच स्वस्थं किमपि भूतं तत्राशरीरकम्॥ 12-344-56(79545)
देव उवाच। 12-344-57x(6571)
दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः।
दृष्टो भवति देवेश एभिर्दृष्टैर्द्विजोत्तमैः॥ 12-344-57(79546)
गच्छध्वं मुनयः सर्वे यथागतमितोऽचिरात्।
न स शक्यस्त्वभक्तेन द्रष्टुं देवः कथंचन॥ 12-344-58(79547)
कामं कालेन महता एकान्तित्वमुपागतैः।
शक्यो द्रष्टुं स भगवान्प्रभामण्डलदुर्दृशः॥ 12-344-59(79548)
महत्कार्यं च कर्तव्यं युष्माभिर्द्विजसत्तमाः।
इतः कृतयुगेऽतीते विपर्यासं गतेऽपि च॥ 12-344-60(79549)
वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे पुनः।
सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ॥ 12-344-61(79550)
ततस्तदद्भुतं वाक्यं निशम्यैवामृतोपमम्।
तस्य प्रसादात्प्राप्ताः स्मो देशमीप्सिंतमञ्जसा॥ 12-344-62(79551)
एवं सुतपसा चैव हव्यकव्यस्तैथैव च।
देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि॥ 12-344-63(79552)
नारायणो महद्भूतं विश्वसृग्घव्यकव्यभुक्।
अनादिनिधनोऽव्यक्तो देवदानवपूजितः॥ 12-344-64(79553)
एवमेकतवाक्येन द्वितत्रितमतेन च।
अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः।
समापयत्ततो यज्ञं दैवतं समपूजयत्॥ 12-344-65(79554)
समाप्तयज्ञो राजाऽपि प्रजां पालितवान्वसुः।
ब्रह्मशापाद्दिवो भ्रष्टः प्रविवेश महीं ततः॥ 12-344-66(79555)
स राजा राजशार्दूल सत्यधर्मपरायणः।
अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः॥ 12-344-67(79556)
नारायणपरो भूत्वा नारायणजपं जपन्।
तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः॥ 12-344-68(79557)
महीतलाद्गतः स्थानं ब्रह्मणः समनन्तरम्।
परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा॥ ॥ 12-344-69(79558)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये चतुश्चत्वारिंशदधिकत्रिशततमोऽध्यायः॥ 344॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-344-31 क्रुद्धं द्रक्ष्यथ तं प्रभुमिति ध. पाठः॥ 12-344-34 अतीन्द्रिया निराहारा इति ध. पाठः॥ 12-344-43 पुरुषव्यत्यय आर्षः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|